Here is the popular one, below Shatnam of Shri Batuk Bhairav isn't that much popular (perhaps has been a secret from Kaal Sankarshan) -- but pls read its Phalashruti, this Shatnam can do lots of wonderful things, like it can remove poverty, it can give protection from negative entities, like that.
।। विनियोग ।।
ॐ अस्य श्रीबटुक-भैरव-स्तोत्र-मन्त्रस्य कालाग्नि- रुद्र ऋषिः । अनुष्टुप् छन्दः । आपदुद्धारक-बटुक-भैरवो देवता । ह्रीं बीजं । भैरवी वल्लभः शक्तिः । नील- वर्णो दण्ड-पाणिः कीलकं । समस्त-शत्रु-दमने समस्ता- पन्निवारणे सर्वाभीष्ट-प्रदाने च विनियोगः ।
।। ऋष्यादि-न्यास ।।
ॐ कालाग्नि--ऋषये नमः शिरसि । अनुष्टुप्- छन्दसे नमः मुखे । आपदुद्धारक-श्रीबटुक-भैरव-देवतायै नमः हृदये । ह्रीं बीजाय नमः गुह्य । भैरवी-वल्लभ- शक्तये नमः पादयोः । नील-वर्णो दण्ड-पाणिः कीलकाय नमः नाभौ । समस्त-शत्रु-दमने समस्तापन्निवारणे सर्वा- भीष्ट-प्रदाने च विनियोगाय नमः सर्वाङ्गे ।
।। मूल-मन्त्र ।।
ॐ ह्रीं वं बटुकाय क्षौं क्षौं आपदुद्धारणाय कुरु कुरु बटुकाय स्वाहा ।
(Without initiation, Mool Mantra shouldn't be chanted -- though one may read the Stotra.)
।। ध्यान ।।
नील-जीमूत-सङ्काशो जटिलो रक्त-लोचनः । दंष्ट्रा कराल-वदनः सर्प-यज्ञोपवीत-वान् ।।
दंष्ट्राऽऽयुधालंकृतश्च कपाल-स्रग्-विभूषितः । हस्त-व्यस्त-करो टीका-भस्म-भूषित-विग्रहः ।।
नाग-राज-कटी-सूत्त्रो बाल-मूर्तिदिगम्बरः । मञ्जु-सिञ्जान-मंजरी-पाद-कम्पित-भूतलः ।।
भूत-प्रेत - पिशाचैश्च सर्वतः परिवारितः । योगिनी-चक्र-मध्यस्थो मातृ-मण्डल-वेष्टितः ।।
।। अष्टोत्तर-शतनाम-स्तोत्रम् ।।
ॐ ह्रीं बटुको वरदः शूरो भैरवः काल-भैरवः । भैरवी वल्लभो भव्यो दण्ड-पाणिर्दया-निधिः ॥1
वेताल-वाहनो रौद्रो रुद्र-भृकुटि-सम्भवः । कपाल-लोचनः कान्तः कामिनी-वश-कृद्-वशी ।।2
आपदुद्धारणो धीरो हरिणाङ्क-शिरोमणिः । दंष्ट्रा-करालो दष्टोष्ठौ धृष्टो दुष्ट-निबर्हणः ।।3
सर्प - हारः सर्प-शिरः सर्प-कुण्डल-मण्डितः । कपालो करुणा-पूर्णः कपालैक - शिरोमणिः ।।4
श्मशान-वासी मांसाशो मधु-मत्तोऽट्टहास-वान् । वाग्मी वाम-व्रतो वामो वाम-देव-प्रियङ्करः ।।5
वनेचरो रात्रि-चरो वसुदो वायु-वेग-वान् । योगी योग-व्रत-धरो योगिनी-वल्लभो युवा ।।6
वीर-भद्रो विश्वनाथो विजेता वीर-वन्दितः । भूताध्यक्षो भूति-धरो भूत-भीति-निवारणः ।।7
कलङ्क-हीनः कङ्काली क्रूरः कुक्कुर-वाहनः । गाढो गहन - गम्भीरो गण-नाथ-सहोदरः ।।8
देवी-पुत्त्रो दिव्य-मूतिर्दीप्ति-मान् दिवा-लोचनः । महासेन-प्रिय-करो मान्यो माधव - मातुलः ।।9
भद्र-काली-पतिर्भद्रो भद्रदो भद्र - वाहनः । पशुपहार-रसिकः पाशी पशु - पतिः पतिः ।।10
चण्डः प्रचण्ड-चण्डेशश्चण्डी-हृदय - नन्दनः । दक्षो दक्षाध्वर-हरो दिग्वासा दीर्घ लोचनः ।।11
निरातङ्को निविकल्पः कल्पः कल्पान्त-भैरवः । मद-ताण्डव-कृन्मत्तो महादेव-प्रियो महान् ।।12
खट्वाङ्ग-पाणिः खातीतः खर-शूलः खरान्त-कृत् । ब्रह्माण्ड-भेदनो ब्रह्म-ज्ञानी ब्राह्मण-पालकः ।।13
दिक्-चरो भू-चरो भूष्णुः खेचरः खेलन-प्रियः, सर्व-दुष्ट-प्रहर्त्ता च सर्व - रोग - निषूदनः ।
सर्व-काम-प्रदः शर्वः सर्व-पाप-निकृन्तनः ।।14
।। फल-श्रुति ।।
इत्थमष्टोत्तर-शतं नाम्ना सर्व - समृद्धिदम् । आपदुद्धार - जनकं बटुकस्य प्रकीर्तितम् ।।
एतच्च शृणुयान्नित्यं लिखेद् वा स्थापयेद् गृहे । धारयेद् वा गले बाहौ तस्य सर्वा समृद्धयः ।।
न तस्य दुरितं किश्चिन्न चौर-नृपजं भयम् । न चापस्मृति-रोगेभ्यो डाकिनीभ्यो भयं नहि ।।
न कूष्माण्ड-ग्रहादिभ्यो नापमृत्योर्न च ज्वरात् । मासमेकं त्रि-सन्ध्यं तु शुचिर्भूत्वा पठेन्नरः ।।
सर्व-दारिद्रध-निर्मुक्तो निधि पश्यति भूतले । मास-द्वयमधीयानः पादुका-सिद्धिमान् भवेत् ।।
अञ्जनं गुटिका खड्गं धातु-वाद-रसायनम् । सारस्वतं च वेताल-वाहनं बिल - साधनम् ।।
कार्य-सिद्धि महा-सिद्धि मन्त्रं चैव समीहितम् । वर्ष-मात्रमधीनः प्राप्नुयात् साधकोत्तमः ।।
एतत् ते कथितं देवि ! गुह्याद् गुह्यतरं परम् । कलि-कल्मष-नाशनं वशीकरणं चाम्बिके ! ।।
Comments
Post a Comment