Skip to main content

Apaduddharan Ashtottarshatnaam Stotra Of Batuk Bhairav, Sanhar/ संहार क्रम

This Sanhar / Samhar Kram Path is the just reverse of Normal (Srishti) Kram Path. In the beginning this Sanhar Kram Path shouldn't be chanted, 'coz in this Krama the Stotra turns Ugra -- as the word Sanhar signifies to "destruction."

ॐ ह्रीं सर्व-सिद्धि-प्रदो वैद्यः, प्रभ-विष्णुरितीव हि। जगद्-रक्षा-करोऽनन्तो, मांया-मन्त्रौषधी-मयः ।।१
कामी कला-निधिः कान्तः, कामिनी-वश-कृद्-वशी। सर्वापत् - तारणो दुर्गो, दुष्ट - भूत- निषेवितः ।।२

बलि-भुग् बलि-भुङ्-नाथो, बालो बाल-पराक्रमः । शुद्ध - नीलाञ्जन - प्रख्य-देहः मुण्ड-विभूषणः ।।३
जृम्भणो मोहनः स्तम्भी, मारणः क्षोभणस्तथा । कपाल - धारी मुण्डी च, नाग - यज्ञोपवीत-वान् ।।४

भूधरो भूधराधीशो, भूपतिर्भू - धरात्मजः ।अष्टाधारः षडाधारः, सर्प - युक्तः शिखी-सखः ।।५
अष्ट - मूर्तिर्निधीशश्च, ज्ञान - चक्षुस्तपो-मयः। प्रशान्तः शान्तिदः शुद्धः, शङ्कर-प्रिय-बान्धवः ।।६

धूर्तो दिगम्बरः शौरिर्हरिणः पाण्डु - लोचनः। भूताध्यक्षः पशु - पतिर्भिक्षुकः परिचारकः।।०७ 
बटुको बटु - वेषश्च, खट्वाङ्ग - वर - धारकः। त्रिवृत्त-तनयो डिम्भः, शान्तः शान्त-जन-प्रियः।।०८ 

त्रि-लोचनः ज्वलन्नेत्रस्त्रि-शिखी च त्रि-लोक-भृत्। कालः कपाल-माली च, कमनीयः कला-निधिः ।।०९ 
नाग-हारो नाग-केशो, व्योम-केशः कपाल-भृत्। धनदोऽधन-हारी च, धन-वान् प्रतिभाग-वान् ।।१० 

अभीरुभैरवी - नाथो, भूतपो योगिनी - पतिः । शूल-पाणिः खड्ग-पाणिः, कङ्काली धूम्र-लोचनः ।।११ 
त्रि - नेत्रो बहु - नेत्रश्च, तथा पिङ्गल - लोचनः। कङ्कालः काल-शमनः, कला-काष्ठा-तनुः कविः ।।१२ 

रक्तपः पानपः सिद्धः, सिद्धिदः सिद्धि-सेवितः । श्मशान-वासी मांसाशी, खर्पराशी स्मरान्त-कृत् ।।१३ 
क्षेत्रज्ञः क्षेत्र - पालश्च, क्षेत्रदः क्षत्रियो विराट्। भैरवो भूत-नाथश्च, भूतात्मा भूत-भावनः ह्रीं ॐ।।१४


Comments