रुद्र-चण्डा प्रचण्डा च, चण्डोग्रा चण्ड-नायिका।
चण्डा चण्डवती चैव, चण्ड-रूपाति-चण्डिका।
नवमी चोग्र-चण्डा च, कथिताऽऽगम-कोविदैः ।।
Dhyan Mantra
खड्गं वज्रं शरं चक्रमंकुशं च तथैव च। वर-त्रिशूलं पात्रं च, दक्षिणेन विराजते ।।
खेटकं च तथा घण्टां, धनुश्चाभय-पाशकं। तर्जनीं दैत्य-केशं च, विन्दु-मुद्रां च वामके।।
स-सिंह-महिषारूढां, रोचना-रूप-शोभितां। ध्यायतां च महा-देवीं, रुद्र-चण्डि ! नमोऽस्तु ते।।
खड्गं शक्ति शरं चक्रं, वज्रं च वरदं तथा। त्रिशूलं च तथा पात्रं, दक्ष-हस्तेषु विभ्रती ।।
खेटकं दर्पणं चैव, धनुश्चाभय-घण्टिकां। तर्जनीं दैत्य-केशं तु, बिन्दु-मुद्रां च वामके ।।
सिंह-महिषमारूढाऽरुणाभा-रूप-सन्निभा। एवं रूपां महा-देवीं, चण्डोग्रायै नमोऽस्तु ते ।।
खड्गं दण्डं शरं चक्रं, वज्रं वर-त्रिशूलकं। पान-पात्रं तथा ध्याये, दक्ष-हस्तेषु विभ्रतीम् ।।
खेटकं तु पाश-धनु-गदां घण्टां च तर्जनीं। दैत्य-केशं विन्दु-मुद्रां, वाम-हस्ते च धारिणीम् ।।
सिंह-महिषमारूढां, कृष्ण-वर्णाङ्ग-भूषणां । एवं ध्यात्वा महा-देवीं, चण्डोग्रायै नमोऽस्तु ते ।।
खड्गं च रत्न-ज्वालां तु, शर-चक्रं च वज्रकं। अंकुशं च त्रिशूलं च, पात्रं विश्वती दक्षिणे ।।
खेटकं तर्जनीं-धनुर्गदा-घण्टां च पाशकं । दैत्य-केशं विन्दु-मुद्रां, वाम-हस्तेषु शोभिता ।।
सिंहासन-स्थिता देवी, महा-महिष-गामिनी। धूम्र-वर्णा महा-देवी, नमस्ते चण्ड-नायिके ! ।।
श्वेत-वर्णा त्रि-नेत्रा च, यौवनी च सु-रूपिणी। खड्गं पाशं शरं वज्र, चक्रं वर-त्रिशूलिनी।।
पात्रं दक्षिण-हस्तेषु, रत्नालङ्कार-भूषिता। खेटकांकुश-धनुषं, गदां घण्टां तु तर्जनीम् ।।
दैत्य-केशं विन्दु-मुद्रां, वाम-हस्तेषु विभ्रती। एवं रूपा तु सा देवी, श्रीचण्डायै नमोऽस्तु ते।।
श्याम-वर्णां महा-देवीं, सिंह-महिष-गामिनीं। खड्गं ध्वजे शरं चक्रे, वज्रं च वरमेव च।।
त्रिशूलं पात्रं हस्तेषु, दक्षिणेन च धारिणीं। खेटकं पाशं धनुषं, गदां घण्टां स-तर्जनीम् ।।
दैत्य-केशं विन्दु-मुद्रां, वाम-हस्तेषु धारिणीं। सर्व-रत्नाङ्ग-चण्डीं तु, चण्ड-वतीं नमोऽस्तु ते ।।
सिंहासनां महिषस्थां, पीत-वर्णां गुण-प्रभां। खड्गं गदां शरं वज्र, चांकुशं वरदं तथा।।
त्रिशूलं पात्रं दक्षे तु, नानालङ्कार-भूषितां। खेटकं चक्रं धनुषं, घण्टां पाशं च तर्जनीम्।।
दैत्य-केशं विन्दु-मुद्रां, वाम-हस्तेषु विभ्रतीं। त्रि-नेत्रां यौवनां देवीं, नमस्ते चण्ड-रूपिणि ।।
श्वेत-वर्णा त्रि-नेत्रा च, हरि-महिष-गामिनी। कला षोडश-संयुक्ता, नाना-रत्न-विलम्बिता।।
खङ्ग-त्रिशूलं वाणं च, चक्राह्लादनमंकुशं। वरदं पाश-पात्रं च, दक्षिणेन विराजिता ।।
खेटकं दैत्य-केशं च, धनुर्गदां च घण्टिकां। पाशं तर्जनी-विन्दुं च, वाम-हस्तेषु धारिणी।।
एवं ध्यात्वा महा-देवि!, अति-चण्डि ! नमोऽस्तु ते ।।
उग्र-चण्डां महा-देवीं, ध्याये भगवतीं शिवां। तप्त-चामीकरां विविध-पुष्प माल्य-शोभिताम्।।
दिव्य-वस्त्र-परीधानां, महिषासन-गामिनीं। किरीट-कुण्डलाकारैः, केयूरैर्मणि-नूपुरैः ।।
रत्न-माल्य-विचित्रैश्च, हार-मालोप-शोभितां । सर्वालङ्कार-संयुक्तां, तडित्-कोटि-सम-प्रभाम्।।
खड्गं शरस्तथा चक्रं, वज्रांकुश-धरां शुभां। वरदां डमरु-हस्तां, शूल-पात्र-सुशोभिताम्।।
पाशं तर्जनी-हस्तां च, खट्वाङ्गं केश-पाशकं । विन्दु-मुद्रां तथा सिद्धि-सिंहासनोपरि-स्थिताम्।।
अधः स्थित्वा शिरश्छिन्नं, महिषं च महा-बलं। तद्-ग्रीवा-निर्गत दैत्य-महा-बल-पराक्रमम् ।।
भेदयन्तीं त्रिशूलेन, विधृतास्यां शिरोरुहाम्।।
Comments
Post a Comment