Nothing comes after Mahakal, He is the ultimate of everything. If you want to do His Sadhana, better start with His Stuti. One should never directly start chanting a mantra of a Prachand Devta / Devi, start with Stuti / Shatnam and move in Sadhana step by step.
श्री महाकाल-भैरव-स्तोत्रम्
ॐ महा-काल महा-काय, महा-काल जगत्-पते ! महा-काल महा-योगिन्, महा-काल ! नमोऽस्तु ते ।।1
महा-काल महा-देव, महा-काल महा-प्रभो ! महा-काल महा-रुद्र, महा-काल ! नमोऽस्तु ते ॥2
महा-काल महा-ज्ञान, महा-काल तमोऽपहन् ! महा-काल महा-काल, महा-काल ! नमोऽस्तु ते ॥3
भवाय च नमस्तुभ्यं, शर्वाय च नमो नमः । रुद्राय च नमस्तुभ्यं, पशूनां पतये नमः ।॥4
उग्राय च नमस्तुभ्यं, महा-देवाय वै नमः । भीमाय च नमस्तुभ्यं, ईशानाय नमो नमः ।।5
सद्योजात ! नमस्तुभ्यं, शुक्ल-वर्ण ! नमो नमः । अध्धः कालाग्नि-रुद्राय, रुद्र-रूपाय वै नमः ।॥7
स्थित्युत्पत्ति-लयानां च, हेतु-रूपाय वै नमः । परमेश्वर - रूपस्त्वं, नील एवं नमोऽस्तु ते ॥8
पवनाय नमस्तुभ्यं, हुताशन ! नमोऽस्तु ते । सोम-रूप ! नमस्तुभ्यं, सूर्य-रूप ! नमोऽस्तु ते ॥9
यजमान ! नमस्तुभ्यं, आकाशाय नमो नमः । सर्व-रूप ! नमस्तुभ्यं, विश्व-रूप ! नमोऽस्तु ते ।।10
ब्रह्म-रूप ! नमस्तुभ्यं, विष्णु-रूप ! नमोऽस्तु ते । रुद्र-रूप ! नमस्तुभ्यं, महा-काल ! नमोऽस्तु ते ।।11
स्थावराय नमस्तुभ्यं, जङ्गमाय नमो नमः । नमः स्थावर-जङ्गमाभ्यां, शाश्वताय नमो नमः ।।12
हूं हुङ्कार ! नमस्तुभ्यं, निष्कलाय नमो नमः । अनाद्यन्त महा - काल, निर्गुणाय नमो नमः ।।13
प्रसोद मे नमो नित्यं, मेघ-वर्ण ! नमोऽस्तु ते । प्रसीद मे महेशान, दिग्-वासाय नमो नमः ।।14
ॐ ह्रीं माया-स्वरूपाय, सच्चिदानन्द - तेजसे । स्वाहा सम्पूर्ण - मन्त्राय, सोऽहं हंसाय ते नमः ।।15
॥ Benefits / फल-श्रुति ॥
इत्येवं देव - देवस्य, महा कालस्य भैरवि ! कीर्तितं पूजनं सम्यक्, साधकानां सुखावहम् ।।16
।। श्रोमहा-काल-भैरव-स्तोत्रं सम्पूर्णम् ।।
Comments
Post a Comment